× About Us Home Founder Patrons Convener Contact Us Privacy Policy
SanatanShakti.in

श्री सीता कवच - त्रैलोक्यमोहनश्रीसीताकवचम्

Shri Sita Kavach - TrailokyamohanShreesitakavacham

 
श्री हनुमदादिषट् कवच

श्री सीता कवच - त्रैलोक्यमोहनश्रीसीताकवचम्

भाग्यवर्द्धन के लिए सीता कवच का पाठ करना चाहिए। सीता कवच के बाद श्रीरामरक्षास्तोत्रम् ( श्रीराम कवच) का पाठ करना चाहिए तथा हनुमाना कवच का पाठ करें । प्रत्येक दिन इन कवचों का पाठ सर्ववांछित फल प्रदान करता है।

श्री सीता कवच - त्रैलोक्यमोहनश्रीसीताकवचम्

श्रीलक्ष्मण उवाच -
कृताञ्जलिपुटो भूत्वा नत्वा शिरसि लक्ष्मणः ।
उवाच परमं दिव्यं सीतायाः कवचं परम् ॥ १॥

त्वत्तः श्रोतुमिच्छामि त्रैलोक्यमोहनं महत् ।
कथयस्व रघुश्रेष्ठ दिव्यं कवचमुत्तमम् ॥ २॥

श्रीराम उवाच श्रृणु वत्स महादिव्यं महामङ्गलदायकम् ।
महासिद्धिकरं पुंसां महासम्पत्तिदायकम् ॥ ३॥

त्रैलोक्यमोहनं नाम कवचं परमाद्भुतम् ।
यः पठेत्सततं भक्त्त्या अपुत्रः पुत्रवान् भवेत् ॥ ४॥

अष्टाक्षरं महामन्त्रं पठेत् कवचसंयुतम् ।
ततः सिद्धिमवाप्नोति अकीलमतुलं वरम् ॥ ५॥

ॐ अस्य श्रीसीतात्रैलोक्यमोहनकवचमन्त्रस्य श्रीरामऋषिरनुष्टुप्
छन्दः श्रीसीतादेवता श्रीसीताप्रीत्यर्थे जपे (पाठे) विनियोगः ॥

ध्यानम् -
नीलाम्भोजदलाभिरामनयनां नीलाम्बरालङ्कृतां
गौराङ्गीं शरदिन्दुसुन्दरमुखीं विस्मेरबिम्बाधराम् ।
कारुण्यामृतवर्षिणीं हरिहरब्रह्मादिभिर्वन्दितां
ध्यायेद्भक्तजनेप्सितार्थफलदां रामप्रियां जानकीम् ॥ १॥

ॐ शिरो मे भूभवा पातु ललाटे जनकात्मजा ।
नेत्रे पातु कुजा चैव वैदेही श्रुतिरक्षिणी ॥ २॥

जिह्वां मे जानकी पातु ग्रीवां जनकनन्दिनी ।
स्कन्धौ पातु महामाया भुजौ पातु सुलोचना ॥ ३॥

करौ पातु सदा सीता हृदयं रामपार्श्वगा ।
मध्यं पातु च पद्माक्षी नाभिं मे वनवासिनी ॥ ४॥

कटिं योगेश्वरी पातु सक्थिनीं मृगध्वंसिनी ।
उरू मे पातु वैदेही जानुनी भिल्लमोक्षिणी ॥ ५॥

जङ्घे बालिप्रमाथिनी चतुष्पदी दैत्यनाशिनी ।
सर्वाङ्गं पातु स्वच्छाङ्गी सदा पातु प्रबोधिनी ॥ ६॥

विभीषणश्रीदा पातु सद्यश्चैव दिशो दश ।
सीतायाः कवचं ह्येतद्देवानामपि दुर्लभम् ॥ ७॥

त्रैलोक्यमोहनं नाम त्रैलोक्यधनदायकम् ।
मुच्यते सर्वपापेभ्यो निर्वाणमधिगच्छति ॥ ८॥

अश्वमेधायुतफलं पठनाल्लभते नरः ।
नित्यं पठति भक्त्या यः तस्य सीता प्रसीदति ॥ ९॥

राज्यलाभो भवेत्तस्य मम भक्तिश्च पुष्कला ।
यः पठेत्तु ममाग्रे वै पूजाकाले प्रयत्नतः ।
सौमित्रे च श्रृणुष्व त्वं ददामि वाञ्छितं फलम् ॥ १०॥

इति त्रैलोक्यमोहनश्रीसीताकवचं सम्पूर्णम् ॥

***********

www.sanatanshakti.in/

श्री सीता कवच - त्रैलोक्यमोहनश्रीसीताकवचम् भाग्यवर्द्धन के लिए सीता कवच का पाठ